वांछित मन्त्र चुनें

प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति । देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

parihvṛted anā jano yuṣmādattasya vāyati | devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ । देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.६

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:8» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सभाध्यक्षजनो ! (न+वयः+पक्षा) जैसे पक्षिगण अपने शिशुओं के ऊपर पक्ष रखते हैं, तद्वत् आप (अस्मे+अधि) हम मनुष्यों के ऊपर (तत्+शर्म) उस कल्याण को (वि+यन्तन) विस्तीर्ण कीजिये (विश्ववेदसः) हे सर्वधनोपेत श्रेष्ठ जनो ! हम प्रजागण (विश्वानि) समस्त (वरूथ्या) गृहोचित धन (मनामहे) आपसे चाहते हैं, कृपाकर उन्हें पूर्ण करें। (अनेहसः) इत्यादि पूर्ववत् ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सभाध्यक्षाः ! न=यथा। वयः=पक्षिणः स्वशिशूनामुपरि। पक्षा=पक्षौ प्रसारयन्ति। तथैव यूयम्। अस्मे+अधि=अस्माकमुपरि। तत् शर्म। वियन्तन=विस्तारयत। हे विश्ववेदसः=सर्वधनाः ! युष्मान्। विश्वानि=सर्वाणि। वरूथ्या=वरूथ्यानि=वरूथं गृहम्। तदुचितानि धनानि। मनामहे=याचामहे। अनेहस इत्यादि गतम् ॥३॥